🌍 Worldwide 
Services for 
All types of Puja and Rituals
सिद्ध कुंजिका स्त्रोत्र

सिद्ध कुंजिका स्त्रोत्र लिरिक्स हिंदी

सिद्ध कुञ्जिकास्तोत्र पाठ 

सिद्ध कुंजिका स्त्रोत्र लिरिक्स 

शिव उवाच

शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।

येन मन्त्रग्रभावेण चण्डी जाप:  शुभो भवेत् ॥ १॥

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।

न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।

अत्ति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥

गोपनीय प्रयत्नेन  स्वयोनिरिव  पार्वति ।

मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।

पाठमात्रेण संसिद्धयेत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥

अथ मन्त्रः

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ ॐ ग्लौं हूं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥

॥ इति मन्त्रः ॥

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि । 

नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ १ ॥ 

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।

जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ॥ २॥

ऍकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका ।

क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ३ ॥

चामुण्डा चण्डघाती च यैकारी वरदायिनी।

विच्चे चाभयदा नित्यं नमस्ते  मन्त्ररूपिणि ॥ ४ ॥

धां धीं धूं धूर्जटेः पत्नी वां वीं वृं वागधीश्वरी।

क्रां क्रीं क्रू कालिका देवि शां शीं शू मे शुभं कुरु ॥ ५ ॥

हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी।

भ्रां श्रीं भ्रू भैरवी भद्रे भवान्यै ते नमो नमः ॥६॥

अंकंचं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।

धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ ७ ॥

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा।

सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥८॥

इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।

अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥

यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत्।

न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥

Book Parthiv Shivling Puja and Rudra Abhishek Puja

इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।*

॥ ॐ तत्सत् ॥

सिद्ध कुंजिका स्त्रोत्र

Leave a Reply

Your email address will not be published. Required fields are marked *

Certified Priests

Vedic Pathshaala Certified Priests.

Vedic Standards

All Rituals Follows vedic procedures and standards.

We Providing Worldwide Services

Book Powerful Pujas Online Now!

100% Secure Checkout

PayPal / MasterCard / Visa

error: Content is protected !!